Sunday, 12 August 2018

9. भजति श्रीहरिं प्रह्लादः

भजति श्रीहरिं प्रह्लादः
भुञ्जानः पर्यटन् शयानः॥


1. क्वचिद् रुदति सः, क्वचिद्धसति सः
क्वचिदुत्कण्ठो गायति नृत्यति
क्वचित् पुलकितः तिष्ठति तूष्णीम्
क्रीडां त्यक्त्वा ध्याने मग्नः
    पितरमश्रुत्वा भक्त्या नित्यम् ॥भजति॥


2. गुरुकुलवासे शिक्षितशास्त्रः
असकृत् पित्रा बहुतर्जितः
निहतः शूलैर्गजैर्मर्दितः
अभिचारैर्मायादिभिर्हतः
    बहुभिरुपायैः कृतस्तथापि ॥भजति॥ 


3. विषं प्रदत्तः न भोजितस्सः
हिमपवनाग्निजलेषु पातितः/बाधितः
शशाक हन्तुं न बालकं तं
हिरण्यकशिपुः रुषा चोदितः
    विष्णू रक्षति तं सदा यतः ॥भजति॥

No comments:

Post a Comment