Sunday 12 August 2018

13. घणघणेति घण्टा नादिता

घणघणेति घण्टा नादिता
बालास्सर्वे आगताः॥

१. पाठालयोऽयमस्माकं
सद्विद्या-प्राप्ति-स्थानं
आगत्यात्र दिनं दिनं
लभामहे सद्विज्ञानम्॥

२. पौर-भूगोल-पशु-वृक्ष-
राजनीत्यर्थ-शास्त्राणि
गणित-भाषा-सङ्गणकानि
शिक्षयन्ति नोऽध्यापकाः
पाठयन्ति सोत्साहिताः॥

३. अत्र पठामः खेलामः
स्पर्धासु भागं गृह्णीमः
तत्र जयो वा पराजयो
हसित्वाग्रे सरामः॥

No comments:

Post a Comment