Sunday 12 August 2018

3. चैनादेशेन निर्मितवस्तुनिषेधगीतम्

चैनादेशे निर्मितवस्तु
वयं न किञ्चित् क्रीणीमः
देशेऽस्माकं क्रियते यद्यत्
तदेव वस्तु स्वीकुर्मः ॥

1. अस्त्यत्रापि स्वदेशद्रव्यं
तेन कुर्मः निर्वहणम्
न्यूनं मूल्यमस्तीति मत्वा
राष्ट्रगौरवं न भञ्ज्मः॥

2. वस्तु विक्रीय लाभं प्राप्य
तेन क्रीणन्ति शस्त्राणि
पाकिस्तानाय तानि दत्त्वा
कारयन्ति ते युद्धानि ॥

3. अल्पमूल्यमिति धिया यदाहम्
चैनावस्तु क्रीणामि
तेन धनेन स्वयं सैनिकं
स्वस्य रक्षकं मारयामि॥

No comments:

Post a Comment