Sunday 12 August 2018

5. सखी/सखा मम

गृहस्य पार्श्वे/अभितः गेहं/सदनं
निवसति कश्चित्/काचित्
राजकुमारवत्/राजकुमारीवत्
सखा/सखी मम

1. रेलयानं चुक्-चुक्-कू इति
खेलाव आवां धावन्तौ
सहोपविश्य नर्मालापान्
उदीरयन्तौ हसावः ॥

2. पितामही कथाः कथयति राज्ञाम्
श्रुणुवः आवां संमग्नौ
ततश्च राजवत् परिहासाय
युद्धं कुर्वः परस्परम् ॥

No comments:

Post a Comment