Sunday 12 August 2018

11. धावति बालोऽनुयाति बाला

धावति बालोऽनुयाति/नुसरति बाला
तं च ग्रहीतुं तस्य पृष्ठतः
द्वावपि हसतः सानन्दम्
उद्याने क्रीडतश्च तौ ॥

१. धावन् पश्चात् पश्यति बालः
तिष्ठ तिष्ठेति क्रन्दति बाला
नैव स्थास्यामि प्राप्नोसि कथं
इत्येवं परिहसति स बालः॥
    धावति बालोऽनुसरति/नुयाति बाला॥


२. यदि न तिष्ठसि/निवर्तसे/वर्तसे त्वया न भाषे
इति सक्रोधं सीदति बाला
दृष्ट्वा बालः प्रत्युपसरति
तं प्रहृत्य द्रवति च बाला॥
    धावति बालाऽनुसरति/नुयाति बालः
    तिष्ठ तिष्ठेति उच्चैः क्रन्दन्॥

No comments:

Post a Comment