Sunday 12 August 2018

15. नाहं कायं नाहं मनः

नाहं कायं नाहं मनः
नेदं मेऽस्ति गृहं धाम
यद्गत्वा न निवर्तन्ते
तद्धाम परमं मम

1. निर्मलमवयवरहितं धाम
सर्वातीतसनातनधाम
अक्षरभावमनन्तं धाम
शाश्वतं च यदधिष्ठानम् ॥तद्धाम॥

2. अव्यक्तं च स्वयं सिद्धं
चैतन्यं निश्चलतत्वं
नित्यप्रकाशसद्रूपं
परिपूर्णं यदधिष्ठानम् ॥तद्धाम॥

3. हिरण्मये परे कोशे
विरजं ब्रह्मनिष्कलं
अचिन्त्यमविनाशकतत्त्वं
परमपदं यदधिष्ठानम् ॥तद्धाम॥

No comments:

Post a Comment