Sunday 12 August 2018

1. उद्योगः साधनम्

एकमेव साधनम्, उद्योगः साधनम्
सर्वसाध्यसिद्धिकारि, नास्ति जगति तत्समम्॥

१. शिक्षा-व्याकरणादि वेदपुरुषसाधनम्
माहेश्वरसूत्राणि व्याकरण-साधनम्
वर्णा मात्रा छन्दः निरुक्तौ च साधनम्
पदज्ञानमर्थधियौ शाब्दबोधसाधनम्
    उद्योगः प्रयतनं च सर्वप्रमुखसाधनम् ॥

२. शमदमादि षट्कमस्ति विबोधनसाधनम्
यमनियमादयः सन्ति योगध्यानसाधनम्
अभ्यासो वैराग्यः वृत्तिरोधसाधनम्
मैत्रीकरुणादयश्च चित्तशुद्धिकारणम्
     उद्योगः प्रयतनं च सर्वसिद्धिसाधनम्॥

३. यज्ञाः यागास्सन्ति स्वर्गसुखसाधनम्
सोमपानमित्यादि यज्ञविधेः साधनम्
ओषधयो मूलादि च व्याधिघातसाधनम्
चक्रदण्डकुलालादि घटस्य च साधनम्
    उद्योगः प्रयतनं च सर्वमुख्यसाधनम्। ॥

४. आलम्बनविभावादि सन्ति रससाधनम्
वर्णादि च तुरी चापि चित्रपटसाधनम्
विवादेषु विजयार्थं सद्युक्तिः साधनम्
परमेश्वरसम्प्राप्तेः भक्तिरस्ति साधनम्
    उद्योगः प्रयतनं च सुप्रधानसाधनम्।

(आदर्शप्रस्तावरत्नमाला- संस्कृतनिबन्धरत्नमाला.. पृ.२४३ इत्यत्र श्लोकैः प्रेरितं गीतमिदम्)

No comments:

Post a Comment