Sunday 12 August 2018

6. विषण्णोऽब्रवीत् कौन्तेयः, विहसदवोचज्जनार्दनः

विषण्णोऽब्रवीत् कौन्तेयः
युद्धं कर्तुं शक्नोमि नेति ॥

1. गाण्डीवं सन्त्यजामि कृष्ण
बन्धुजनान् न हि हन्मि हरे
न काङ्क्षामि विजयं न च राज्यं
पापकृतिं न करोमि, म्रियेय ॥युद्धं॥

2. शरीरे मम कम्पनमस्ति
स्थातुं न हि शक्नोमि हरे
निहत्य स्वजनान् किं भोगैर्मे
प्रणश्यन्ति धर्माः सर्व, इति ॥युद्धं॥

विहसदवोचज्जनार्दनः
तव कर्तव्यं शत्रुहननमिति॥

1. क्लैब्यं मा स्म गमः, परन्तप
त्वमसि क्षत्रियोत्तमो महान्
यदि जेष्यसि राज्यं प्राप्नोषि
नो चेत् स्वर्गं गमिष्यसि, इति॥

2. सङ्गरोऽस्तीह त्वच्चिकीर्षितः
आहवभूमौ कुतो भयः?
युद्धं त्यक्त्वा गृहं गते त्वयि
हसन्ति सर्वे भीरुरिति, इति॥
 

No comments:

Post a Comment