Sunday 12 August 2018

10. सुन्दरं लिखति मे लेखनी

सुन्दरं लिखति मे लेखनी
नन्दकं कवित्वं लिखति मे लेखनी॥


१. करो मे स्पृशति तामाशया
गृहीत्वाङ्गुल्योः कर्गदं स्पर्शयति
गङ्गेव यमुनेव भावप्रवाहः
रङ्गैस्तरङ्गैः प्लवङ्गैश्च कूर्दते॥


२. यानि नश्यन्ति न हि संसृतौ
तैरक्षरैश्च सा रूपयति चित्राणि
मानसं मथित्वा शब्दैश्च संयोज्य
भावकाव्यानि सा प्रीत्या निबध्नाति॥

No comments:

Post a Comment