Sunday 12 August 2018

14. व्याधः शप्तः महर्षिणा

व्याधः शप्तः महर्षिणा
त्वं च प्रतिष्ठां मा गमश्चेति॥

१. स्नानार्थं तमसायास्तीरं
यात्वापश्यन्निसर्गचित्रम्
सज्जनमन इव निर्मलोदकं
चित्तप्रसादक-शान्तप्रकृतिम्।
    वीक्ष्य मुदितेन तपस्विना ॥व्याधः॥

२. तत्र कस्यचिद् वृक्षस्योपरि
तेनादर्शि क्रौञ्च-द्वन्द्वं ।
प्रणयासक्तं मिथोनुरक्तं
निषादबाणैस्सपदि चाहतं
    तत्पीडितेन मनस्विना॥व्याधः॥

३. भूमौ पतितं विगतासुं तं
क्रौञ्चं दृष्ट्वा क्रौञ्ची व्यलपत्।
हृदयदारकं करुणं दृश्यं
विलोक्य सहसा मुनिर्दुःखितः
    शोकजनितेन श्लोकेन ॥व्याधः॥

No comments:

Post a Comment