Sunday 12 August 2018

4. सुदूरदेशे स्थितास्ति

सुदूरदेशे स्थितास्ति काचित्
राजकुमारी प्रिया मम॥

1. खेलति हृदये सदा हसन्ती
गायति गीतं च सा मुदा
हसितं तस्याः पुष्पहासः
हृदयं तस्याः नवनीतम्॥

2. तां पश्यामि नित्यं स्वप्ने
तया वदामि अनुनिरतम्
नेत्रे तस्याः पद्मसन्निभे
स्वरः तस्याः पिक इव॥

No comments:

Post a Comment