Sunday 12 August 2018

12. सुन्दरमेतदुद्यानम्

सुन्दरमेतदुद्यानम्
शोभनमेतदुद्यानम्
याम, आयाथ मित्राणि
नन्दन्त्वस्मद्गात्राणि॥

१. सायं समये शीतलवायुः
वहति सर्वत्र ह्लादयते च
पत्रैः वृक्षः गीतं गायति
नीलाकाशे डयन्ते खगाः॥

२. अटन्ति केचिद् व्यायामाय
केचिद् वार्तालापे मग्नाः
कश्चन सूर्यं पश्यन्नास्ते
तिष्ठति कश्चन ध्यानं कुर्वन्॥

३. पठनभारं च विस्मृत्य
मित्रैः साकं नन्दामः
वयं बालकाः खेलामः
विविधान् क्रीडान् हर्षेण॥

No comments:

Post a Comment